धर्मः - अधर्मः *महाभाष्यम् - शाबरभाष्यम् - (गीता-) शांकरभाष्यम्*
One should not discuss either धर्म or अधर्म in isolation , although either only is mentioned -- *महाभाष्यम् --* शास्त्रज्ञानपूर्वके शब्दप्रयोगे धर्मः - is the सिद्धान्त (if one , uses शब्दs, with prior knowledge of व्याकरणम्, then he will get धर्म (शास्त्रपूर्वके प्रयोगे’भ्युदयः तत्तुल्यं वेदशब्देन -- *पस्पशाह्निकम्, महाभाष्यम् *)। भाष्यम् before that -- किं पुनः शब्दस्य ज्ञाने धर्मः आहोस्वित् प्रयोगे ? (would mere ज्ञान of शब्दs would fetch धर्म or प्रयोग?) (*वार्तिकम्*) - ज्ञाने धर्म इति चेत्तथा अधर्मः। (*भाष्यम्*) - ज्ञाने धर्म इति चेत्तथा अधर्मः प्राप्नोति । यो हि शाब्दान् जानाति अपशब्दानप्यसौ जानाति । यथैव शब्दज्ञाने धर्मः एवमपशब्दज्ञाने’प्यधर्मः। *अथवा भूयानधर्मः प्राप्नोति* । भूयांसो हि अपशब्दाः अल्पीयांसः शब्दाः । एकैकस्य शब्दस्य बहवो’पभ्रंशाः । तद्यथा - गौरित्यस्य गावी गोणी गोता गोपोतलिका इत्येवमादयः अपभ्रंशाः। (If you say there will be धर्म due to ज्ञान then there will be अधर्म like that -- if it is stated that there will be धर्म due to ज्ञान then there will be अधर्म also. The one who knows शब्दs also knows अपशब्दs as well. Just like धर्म due to शब्दज्ञान there will be अधर्म due to अपशब्दज्ञान। Rather there will be more अधर्म ! More are अपशब्दs and less are शब्दs. Each शब्द would have many अपभ्रंशs. It is just like the word गौः has got गावी गोणी गोता गोपोतलिका etc as अपभ्रंशाः। अथवा पुनरस्तु -- ज्ञाने एव धर्मः । ननु चोक्तं - ज्ञाने धर्म इति चेत्तथा अधर्म इति? नैष दोषः, शब्दप्रमाणका वयम्, यच्छब्द आह तदस्माकं प्रमाणम् । शब्दश्च शब्दज्ञाने धर्ममाह नापशब्दज्ञाने अधर्मम् । *यच्च पुनरशिष्टाप्रतिषिद्धं नैव तद्दोषाय भवति नाभ्युदयाय। तद्यथा - हिक्कितहसितकण्डूयितानि नैव दोषाय भवन्ति नाभ्युदयाय।* Let there be - धर्म due to ज्ञान only ! But it is said - if धर्म due to ज्ञान then there will be अधर्म as welll. This is not a defect - we strictly follow शब्दप्रमाणम् - शब्द says धर्म due to शब्दज्ञान but does not say अधर्म due to अपशब्दज्ञान । *(There are certain कर्मs other than पुण्यकर्म and पापकर्म) . A कर्म that is neither prescribed nor proscribed would fetch neither पुण्यम् nor पापम् - just like - hiccups,**laughter and scratching cause neither पुण्यम् nor पापम्।* ....तदेवं ’ज्ञाने धर्मः’ इति ब्रुवतः अर्थादापन्नं भवति - ’ अपशब्दज्ञानपूर्वके शब्दज्ञाने धर्म ’ इति । .... यद्यपशब्दज्ञाने अधर्मः, तथापि यस्त्वसौ शब्दज्ञाने धर्मः तेन स च दोषो निर्घानिष्यते, भूयसा च अभ्युदयेन योगो भवति। Due to अर्थापत्ति (implication) it is understood that there will be धर्म due to शब्दज्ञान preceded by अपशन्दज्ञान। .. and the defect of अधर्म due to अपशब्दज्ञान will be decimated by the धर्म achieved by शब्दज्ञान and one would get a lot of पुण्यम्। *शाबरभाष्यम् *-- ’चोदनालक्षणः अर्थो धर्मः’ (*पूर्वमीमांसासूत्रम् 1-1-2*) - धर्म is the one that prompts one to do an activity. *शबरस्वामी* , who autored a भाष्यम् (sholium) on जैमिनिसूत्रs of पूर्वमीमांसा explains - उभयमिह चोदनया लक्ष्यते - अर्थः अनर्थश्चेति। को’र्थः? यो हि निःश्रेयसाय ज्योतिष्टोमादिः। को’नर्थः? यः प्रत्यवायाय श्येनो वज्र इषुरित्येवमादिः। तत्रानर्थो धर्म उक्तो मा भूदित्यर्थग्रहणम्। कथं पुनरसौ अनर्थः? हिंसा हि सा, सा हि प्रतिषिद्धेति। कथं पुनः अनर्थः कर्तव्यतया उपदिश्यते? उच्यते - नैव श्येनादयः कर्तव्यतया विज्ञायन्ते - यो हि हिंसितुमिच्छेत् तस्यायमभ्युपायः - इति तेषामुपदेशः - श्येनाभिचरन् यजेत इति हि समामनन्ति, न अभिचरितव्यम् इति। Gist -- In वेद the चोदना for both अर्थ and अनर्थ is seen -- ज्योतिष्टोमेन स्वर्गकामो यजेत ( the one desirous of स्वर्ग should perforn ज्योतिष्टोमयाग - *तैत्तिरीयब्राह्मणम् 1-5-11-2* ) - श्येनेनाभिचरन् यजेत (the one who wants to take revenge against the enemy should perform श्येनयाग - *आपस्तंबश्रौतसूत्रम् 2-2-4-13*) | अभिचारः means हिंसा and tjhe मन्त्राः for अभिचारहोम are there in *अथर्ववेद*। Following the dictum - मा हिंस्यात् सर्वा भूतानि (*श्रुतिः*) performance of अभिचारयाग is अधर्म । शबरस्वामी explains - the अभिचारमन्त्रs are provided to employ if there is the need and that does not mean that अभिचारहोम is being injuncted as a विधि by वेद । The term निःश्रेयस (अच्प्रत्ययान्त is निपातित in समासान्तs by पाणिनि 5-4-77 अचतुरविचतुरसुचतुर ....) means *कल्याणम् in पूर्वमीमांसा and मोक्ष in वेदान्त*) । *शांकरभाष्यम् (भग्वद्गीता 18-66)* -- सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज। अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः॥ .... इदानीं कर्मयोगनिष्ठाफलं सम्यग्दर्शनं सर्ववेदान्तविहितं वक्तव्यमित्याह - सर्वधर्माः सर्वे च ते धर्माश्च सर्वधर्माः तान् । *धर्मशब्देनात्र अधर्मो’पि गृह्यते नैष्कर्म्यस्य विवक्षितत्वात् । ’ नाविरतो* *दुश्चरितात् ’ , ’त्यज धर्ममधर्मंं च’ - इत्यादिश्रुतिस्मृतिभ्यः ।* So , depending on विवक्षा (तात्पर्यम्) one has to interpret a sentence . And one should not isolate धर्म / अधर्म from the other while taking up any discussion . Same is the case with* कर्म / अकर्म (refer to 3rd अध्याय of भगवद्गीता* । धन्यो’स्मि Dr.Korada Subrahmanyam Prof of Sanskrit (Retd) -- You received this message because you are subscribed to the Google Groups "Thatha_Patty" group. To unsubscribe from this group and stop receiving emails from it, send an email to [email protected]. To view this discussion visit https://groups.google.com/d/msgid/thatha_patty/CAL5XZooiYXwv6ZGD6k8zabqr8H5KEyaTEC6FiZTrKZJ9d9H8cA%40mail.gmail.com.
